दीपकम् अध्याय 11 पाठ्य-प्रश्नाः (संवादे आगताः)

अद्यतन2026-09-05

प्र1.
उत्तमम्, राजर्षे ! किं भवान् स्वराजद्वीपं दृष्टवान् ?
उत्तर

राजर्षिः अवदत् — “न स्मरामि महोदये !” ततः अध्यापिका स्वराजद्वीपस्य विषये अकथयत्।

स्वराजद्वीपे एलीफेण्टा-तटे, नॉर्थ-बे-अन्तरीपे
सिन्धुतलविहारं, स्कूबाडाइविङ्ग्, स्नॉर्कलिङ्ग् इत्यादयः विविधाः गतिविधयः चलन्ति।
समुद्रस्य अन्तर्भागः विविधवर्णैः मत्स्यैः, कच्छपैः, अन्यैः जलचरैः,
प्रवालशृङ्खलाभिः च अलङ्कृतः इव दृश्यते
हिन्दी अर्थ: स्वराजद्वीप के एलीफेण्टा तट और नॉर्थ-बे अन्तरीप पर सी-वॉक, स्कूबा-डाइविंग, स्नॉर्कलिंग जैसी अनेक गतिविधियाँ चलती हैं। समुद्र का भीतरी भाग रंग-बिरंगी मछलियों, कछुओं, दूसरे जलचरों और मूँगे की मालाओं से सजा हुआ-सा दिखाई देता है।
ध्यातव्यम्: स्वराजद्वीपस्य पुरातनं नाम हैवलॉक्-द्वीपः आसीत्। अलङ्कृतः इव — अत्र 'इव' इति उपमावाचकम् अव्ययम्; समुद्रान्तर्भागस्य अलङ्कृतेन गृहेण सह उपमा कृता।
क्या यह उपयोगी रहा? त्रुटि बताएँ