प्र1.
योग्यताविस्तरे दत्तानाम् एतेषां पदानां परिचयं लिखन्तु — श्रीविजयपुरम्, स्कूबा-डैविङ्ग्, स्नॉर्कलिङ्ग्, सिन्धु-तल-विहारः, कोरल्-रीफ्।
उत्तर
पुस्तके एतेषां पञ्चानां पदानां व्याख्या दत्ता अस्ति —
| पदम् | संस्कृत-परिचयः (पुस्तकात्) | हिन्दी अर्थ |
|---|---|---|
| श्रीविजयपुरम् | भारतीयसर्वकारेण पोर्ट-ब्लेयर इत्यस्य नाम परिवर्त्य श्रीविजयपुरम् इति कृतम्। | भारत सरकार ने 'पोर्ट-ब्लेयर' का नाम बदलकर 'श्रीविजयपुरम्' रखा। |
| स्कूबा-डैविङ्ग् | पृष्ठे प्राणवायोः कोषं स्थापयित्वा, कोषे संलग्ननलिकया मुखनासिकाभ्यां श्वासग्रहणेन सह गभीरजले सन्तरणम्। | पीठ पर ऑक्सीजन का सिलिण्डर बाँधकर, उससे जुड़ी नली द्वारा मुँह-नाक से साँस लेते हुए गहरे पानी में तैरना। |
| स्नॉर्कलिङ्ग् | उपनेत्रं धृत्वा समुद्रजलस्य उपरि प्लवनम्। | चश्मा (मास्क) पहनकर समुद्र-जल के ऊपर-ऊपर तैरना। |
| सिन्धु-तल-विहारः | सीवॉक् नाम्ना प्रसिद्धः। अस्मिन् गतिविधौ जनाः समुद्रस्य तलं यावत् गच्छन्ति। | 'सी-वॉक' नाम से प्रसिद्ध; इसमें लोग समुद्र की तली तक जाते हैं। |
| कोरल्-रीफ् | प्रवालशैलसमूहः कोरल्-रीफ्-नाम्ना ज्ञायते। | मूँगे की चट्टानों का समूह 'कोरल-रीफ़' कहलाता है। |
ध्यातव्यम्: एतानि सर्वाणि पदानि पाठे एव आगतानि — 'स्वराजद्वीपे एलीफेण्टा-तटे, नॉर्थ-बे-अन्तरीपे च सिन्धुतलविहारं, स्कूबाडाइविङ्ग्, स्नॉर्कलिङ्ग् इत्यादयः विविधाः गतिविधयः चलन्ति।' अतः योग्यताविस्तरः पाठस्य अवगमनं सरलं करोति।