श्लोकः — याज्ञवल्क्य-शिक्षायाः (पृष्ठ 138)।
पदच्छेदः — एकमात्रः + भवेत् + ह्रस्वः + द्विमात्रः + दीर्घः + उच्यते + त्रिमात्रः + च + प्लुतः + ज्ञेयः + व्यञ्जनम् + च + अर्धमात्रिकम्।
अन्वयः — एकमात्रः (स्वरः) ह्रस्वः भवेत्। द्विमात्रः (स्वरः) दीर्घः उच्यते। त्रिमात्रः च (स्वरः) प्लुतः ज्ञेयः। व्यञ्जनं च अर्धमात्रिकम् (भवति)।
अर्थः — एकमात्र (स्वर) ‘ह्रस्व’ होता है। द्विमात्र (स्वर) ‘दीर्घ’ कहलाता है। त्रिमात्र (स्वर) ‘प्लुत’ जानना चाहिए। और व्यञ्जन तो अर्धमात्रिक (आधी मात्रा वाला) ही होता है।
स्वरः → द्विमात्रः (२) = दीर्घः
स्वरः → त्रिमात्रः (३) = प्लुतः
व्यञ्जनम् → अर्धमात्रम् (१/२) = अर्धमात्रिकम्