पदच्छेदः — माता भूमिः पुत्रः अहम् पृथिव्याः ।
अन्वयः — भूमिः माता (अस्ति), अहं पृथिव्याः पुत्रः (अस्मि) ।
अर्थः (हिन्दी) — पृथ्वी मेरी माता है और मैं पृथ्वी का पुत्र हूँ।
भावार्थः (पुस्तकानुसारम्) — पृथ्वी अस्मान् माता इव लालयति पालयति च । अतः भूमिः अस्माकं सर्वेषां माता अस्ति । वयं सर्वे अस्याः पृथिव्याः सन्तानाः स्मः । एषा सर्वदा पूज्या अस्ति ।
[पृथ्वी हमें माँ की तरह दुलारती और पालती है। इसलिए भूमि हम सबकी माता है। हम सब इस पृथ्वी की सन्तान हैं। यह सदा पूजनीय है।]