माता उत्तरं ददाति — वत्से ! तदर्थं भवती प्रथमं पृथिव्याः उत्पत्तिक्रमं जानीयात् ।
[बेटी! इसके लिए तुम्हें पहले पृथ्वी की उत्पत्ति का क्रम जानना चाहिए।]
दीपकम् अध्याय 9 पाठे विद्यमानाः प्रश्नाः
अद्यतन2026-09-05
ब्रह्म इत्युक्ते चेतना-शक्तिः, ऊर्जा वा या सर्वत्र व्याप्ता अस्ति। यथा — आकाशः अणुः च सर्वत्र व्याप्तः अस्ति ।
[‘ब्रह्म’ का अर्थ है वह चेतना-शक्ति अथवा ऊर्जा जो सर्वत्र फैली हुई है — जैसे आकाश और अणु सब जगह व्याप्त हैं।]
आकाशात् वायुः उत्पन्नः ।
[आकाश से वायु उत्पन्न हुई।]
शृणोतु, वदामि। वायोः अग्निः उत्पन्नः । … (क्रमेण) … अग्नेः जलस्य उत्पत्तिः अभवत्, जलात् पृथिव्याः उत्पत्तिः अभवत् ।
[सुनिए, बताती हूँ। वायु से अग्नि उत्पन्न हुई; अग्नि से जल की उत्पत्ति हुई और जल से पृथ्वी की उत्पत्ति हुई।]
अयि वत्से ! एतत् सर्वं नास्ति चेत् कथं मनुष्याः प्राणिनः वा जीवन्ति ?
[अरी बेटी! यदि यह सब न हो तो मनुष्य अथवा प्राणी जिएँगे कैसे?]
अग्नेः जलस्य उत्पत्तिः अभवत् ।
[अग्नि से जल की उत्पत्ति हुई।]
नैव वत्से ! जलात् पृथिव्याः उत्पत्तिः अभवत् ।
[नहीं बेटी! जल से पृथ्वी की उत्पत्ति हुई।]
आम् । अहो ! मम पुत्री बहु चतुरा अस्ति। सत्यम् उक्तवती भवती ।
[हाँ। अरे! मेरी बेटी बहुत चतुर है। तुमने ठीक कहा।]
अहम् आधुनिकं रसायनशास्त्रम् उपनिषद्-ग्रन्थान् च पठितवती ।
[मैंने आधुनिक रसायनशास्त्र और उपनिषद्-ग्रन्थ पढ़े हैं।]
तदा माता उपदिशति — सत्यं वत्से ! अवश्यम् उपनिषद्-ग्रन्थाः पठनीयाः। यतः अस्माकं भारतस्य मौलिकं ज्ञानं तेषु निहितम् अस्ति। तेन अस्माकं जीवनस्य अपि उत्कर्षः भवति ।
[उपनिषद्-ग्रन्थ अवश्य पढ़ने चाहिए, क्योंकि हमारे भारत का मौलिक ज्ञान उन्हीं में निहित है; उससे हमारे जीवन का उत्कर्ष भी होता है।]