दीपकम् अध्याय 1 अत्र इदम् अवधेयम्

अद्यतन2026-09-05

प्र1.
गम्-धातुः सामान्यतया कीदृशः अस्ति ? ‘सम्’ उपसर्गे योजिते सति तस्य रूपेषु कः परिवर्तनः भवति ?
उत्तर

गम्-धातुः सामान्यतया परस्मैपदी अस्ति। यदा ‘सम्’ इति उपसर्गयुक्तः गम्-धातुः भवति, तदा तस्य आत्मनेपदरूपाणि भवन्ति। (हिन्दी — गम् धातु साधारणतः परस्मैपदी है; परन्तु जब उसमें ‘सम्’ उपसर्ग जुड़ता है, तब उसके रूप आत्मनेपद में बनते हैं।)

गम् + ति = गच्छति (परस्मैपदम्)
सम् + गच्छति = सङ्गच्छते (आत्मनेपदम्)
क्यों यह ज़रूरी है: इसी नियम के कारण पाठ का शीर्षक-पद ‘संगच्छध्वम्’ बना है, ‘संगच्छत’ नहीं। यदि उपसर्ग न होता तो लोट् मध्यमपुरुष बहुवचन का रूप ‘गच्छत’ होता — परस्मैपद का। ‘सम्’ जुड़ते ही आत्मनेपद का प्रत्यय ‘ध्वम्’ लगा और रूप बना ‘संगच्छध्वम्’।
प्र2.
गम्-धातोः लोट्-लकारस्य रूपाणि लिखत। लोट्-लकारः केषु अर्थेषु प्रयुज्यते ?
उत्तर

परस्मैपदम् (गम् — गच्छ्)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःगच्छतुगच्छताम्गच्छन्तु
मध्यमपुरुषःगच्छगच्छतम्गच्छत
उत्तमपुरुषःगच्छानिगच्छावगच्छाम

आत्मनेपदम् (सम् + गम्)

पुरुषःएकवचनम्द्विवचनम्बहुवचनम्
प्रथमपुरुषःसंगच्छताम्संगच्छेताम्संगच्छन्ताम्
मध्यमपुरुषःसंगच्छस्वसंगच्छेथाम्संगच्छध्वम्
उत्तमपुरुषःसंगच्छैसंगच्छावहैसंगच्छामहै

लोट्-लकारस्य त्रयः प्रयोगाः —

  1. आज्ञार्थे — यथा : छात्राः ! यूयम् उत्तिष्ठत। यूयम् उपविशत
  2. आमन्त्रणार्थे — यथा : भवन्तः आगच्छन्तु। सार्धं क्रीडामः।
  3. आशीर्वादार्थे — यथा : आयुष्मान् भव। विजयी भव। शिवास्ते पन्थानः सन्तु
ध्यान रखने की बात: लोट्-लकार का अनुवाद हमेशा ‘आज्ञा’ नहीं होता। ‘आयुष्मान् भव’ में आदेश नहीं, आशीर्वाद है; ‘भवन्तः आगच्छन्तु’ में विनम्र निमन्त्रण है। वाक्य का सन्दर्भ देखकर ही अर्थ तय करें।
Tip: उत्तमपुरुष के रूप (गच्छानि, गच्छाव, गच्छाम) प्रायः ‘मैं जाऊँ ?’, ‘हम दोनों चलें’, ‘हम सब चलें’ जैसे प्रस्ताव के अर्थ में आते हैं — इसी से अभ्यास प्रश्न ६ के (घ) और (ङ) हल होंगे।
प्र3.
अस्मद्-युष्मद्-शब्दयोः केषु विभक्तिषु वैकल्पिकरूपाणि भवन्ति ? उदाहरणैः स्पष्टीकुरुत।
उत्तर

अस्मद्-युष्मद्-शब्दयोः द्वितीया-चतुर्थी-षष्ठी-विभक्तिषु वैकल्पिकरूपाणि भवन्ति। (हिन्दी — ‘अस्मद्’ (मैं/हम) तथा ‘युष्मद्’ (तुम) शब्दों के द्वितीया, चतुर्थी और षष्ठी विभक्ति में दो-दो रूप — पूर्ण रूप तथा लघु वैकल्पिक रूप — चलते हैं।)

विभक्तिःअस्मद् — पूर्णरूपम्अस्मद् — वैकल्पिकरूपम्
द्वितीयाशाधि माम् त्वां प्रपन्नम्।शाधि मा त्वा प्रपन्नम्।
चतुर्थीदेहि मह्यं वरदे वरम्।देहि मे वरदे वरम्।
षष्ठीत्वमेव सर्वं मम देवदेव।त्वमेव सर्वं मे देवदेव।
विभक्तिःयुष्मद् — पूर्णरूपम्युष्मद् — वैकल्पिकरूपम्
द्वितीयाअहं त्वां मोक्षयिष्यामि।अहं त्वा मोक्षयिष्यामि।
चतुर्थीनमः तुभ्यम् (नमस्तुभ्यम्)।नमः ते (नमस्ते)।
षष्ठीशिष्यः तव अहम्।शिष्यः ते अहम्।
पाठ से जोड़िए: मन्त्रों में बार-बार आया ‘वः’ इसी ‘युष्मद्’ का वैकल्पिक रूप है — ‘सं वो मनांसि’, ‘समानी आकूतिः’ में इसका अर्थ ‘युष्माकम्’ (तुम्हारा) है, और ‘वः हविषा जुहोमि’ में ‘युष्मभ्यम्’ (तुम्हारे लिए)।
नियम: ये वैकल्पिक (लघु) रूप वाक्य के आरम्भ में कभी नहीं आते — इसीलिए ‘मे वरदे वरं देहि’ लिखना ठीक नहीं; ‘देहि मे वरदे वरम्’ ठीक है।
क्या यह उपयोगी रहा? त्रुटि बताएँ