उत्तरम् — स्थानं विद्यालयकक्षा अस्ति। अध्यापके कक्षायां प्रविशति सति सर्वे छात्राः ‘शुभप्रभातं, गुरुवर्य !’ इति वदन्ति, अध्यापकः च ‘शुभप्रभातं, प्रियच्छात्राः !’ इति प्रत्युत्तरं ददाति। ततः यशिका पृच्छति — ‘महोदय ! अद्य अहं किञ्चन चालकरहितं पटु-कारयानं दृष्टवती। अहम् आश्चर्यचकिता। किम् एतत् संभवम् ?’ अध्यापकः उत्तरं ददाति — ‘अवश्यं यशिके ! एतत् कृतकबुद्ध्या सम्भवति।’
(हिन्दी — स्थान है विद्यालय की कक्षा। अध्यापक कक्षा में प्रवेश करते हैं, सब छात्र ‘शुभप्रभात, गुरुवर्य!’ कहते हैं। तब यशिका पूछती है — ‘महोदय! आज मैंने एक बिना चालक की स्मार्ट कार देखी। मैं आश्चर्यचकित हूँ। क्या यह सम्भव है?’ अध्यापक उत्तर देते हैं — ‘अवश्य यशिके! यह कृतकबुद्धि से सम्भव होता है।’)
पटु-कारयानम् = पटु (चतुर) + कारयानम् (कार-रूपी यान) — Smart Car
दृष्टवती = √दृश् + क्तवतु + ङीप् (स्त्रीलिङ्ग) — ‘उसने देखा’
आश्चर्यचकिता = आश्चर्येण चकिता — तृतीया-तत्पुरुष, स्त्रीलिङ्ग